खर्जूरम्
दिखावट
खर्जूरम् Phoenix dactylifera (Date Palm) | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
Dates on date palm
| ||||||||||||||||
जैविकवर्गीकरणम् | ||||||||||||||||
| ||||||||||||||||
द्विपदनाम | ||||||||||||||||
Phoenix dactylifera L. | ||||||||||||||||
एतत् खर्जूरं भारते अपि वर्धमानः कश्चन फलविशेषः । अयम् अपि सस्यजन्यः आहारपदार्थः । एतत् खर्जूरम् आङ्ग्लभाषायां Date इति उच्यते । एतत् खर्जूरम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्य खर्जूरस्य फलं रसं चापि उपयुज्यते । एतत् खर्जूरम् Dryfruits इति यानि उच्यन्ते तेषां शुष्कफलानां गणे अन्तर्भवति ।
आयुर्वेदस्य अनुसारम् अस्य खर्जूरस्य स्वभावः
[सम्पादयतु]एतत् खर्जूरं पचनार्थं लघुः । इदं खर्जूरं स्निग्धम्, मधुररसयुक्तं चापि ।
- १. इदं खर्जूरं हृद्यं, बृंहणं च ।
- २. एतत् खर्जूरं वातं पित्तं च हरति । अतः वातजैः रोगैः, पित्तजैः रोगैः च पीड्यमानानां, वातप्रकृतियुक्तानां, पित्तप्रकृतियुक्तानां च, पित्तकाले, देशे च अस्य खर्जूरस्य उपयोगः हितकरः ।
- ३. एतत् खर्जूरम् मद्यस्य आधिक्येन सेवनेन जातेषु रोगेषु अपि उपयुज्यते ।
- ४. एतत् खर्जूरं वमनं, दाहं च शमयति ।
- ५. एतत् खर्जूरं श्वासम् (अस्तमा), कासं च निवारयति ।
- ६. इदं खर्जूरंहृदयस्य बलं वर्धयति । मूर्छारोगं चापि निवारयति ।
- ७. एतत् खर्जूरं रुचिकारकम् अपि ।
- ८. एतस्य खर्जूरस्य खर्जूरादिमन्थ अपि उपयोक्तुं शक्यते ।
- ९. आवश्यकतायाः अनुसारम् अस्य खर्जूरस्य गुलिका अपि उपयुज्यते ।
अधिकानि चित्राणि
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- INC, International Nut and Dried Fruit Council Foundation
- Date Palm Cultivation Archived २००५-०१-०४ at the Wayback Machine (Food and Agriculture Organization)
- Date Palm Products (Additional information from the FAO)
- Date Palm Archived २००७-११-२० at the Wayback Machine entry in Encyclopaedia Iranica