पन्नामण्डलम्
पन्नामण्डलम् Panna District | |
---|---|
पन्ना जिला | |
पन्नामण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे पन्नामण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | पन्ना, देवेन्द्रनगर, गुनोर, अमनगञ्ज, पवई, शाहनगर, रायपुरा, अजयगढ |
विस्तारः | ७,१३५ च. कि. मी. |
जनसङ्ख्या (२०११) | १०,१६,५२० |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ६४.७९% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४५% |
Website | http://www.panna.nic.in/ |
पन्नामण्डलम् ( ( शृणु) /ˈpənnɑːməndələm/) (हिन्दी: पन्ना जिला, आङ्ग्ल: Panna district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पन्ना इति नगरम् ।
भौगोलिकम्
[सम्पादयतु]पन्नामण्डलस्य विस्तारः ७,१३५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सतनामण्डलं, पश्चिमे छतरपुरमण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे कटनीमण्डलम् अस्ति । अस्मिन् मण्डले केननदी प्रवहति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं पन्नामण्डलस्य जनसङ्ख्या १०,१६,५२० अस्ति । अत्र ५,३३,४८० पुरुषाः, ४,८३,०४० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १४२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १४२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.६७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०५ अस्ति । अत्र साक्षरता ६७.७९% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- पन्ना, देवेन्द्रनगर, गुनोर, अमनगञ्ज, पवई, शाहनगर, रायपुरा, अजयगढ ।
कृषिः वाणिज्यं च
[सम्पादयतु]अस्मिन् मण्डले वज्रस्य व्यापारः भवति । पन्नामण्डलस्य अपरं नाम वज्रनगरम् (District of Diamonds) इति । अस्मिन् मण्डले अत्यधिकपरिमाणे वज्रं प्राप्यते ।
वीक्षणीयस्थलानि
[सम्पादयतु]पाण्डव-जलप्रपातः
[सम्पादयतु]पाण्डव-जलप्रपातः पन्ना-नगरात् १२ कि. मी. दूरे अस्ति । अयं जलप्रपातः पन्नाराष्ट्रियोद्याने स्थितः अस्ति । अयं जलप्रपातः वर्षा-ऋतौ अतीव रमणीयः भवति । पन्नाराष्ट्रियोद्याने बहवः गुहाः सन्ति । महामतिप्राणनाथजी मन्दिर, पद्मावतीदेवी बडीदेवी मन्दिर, बलदेवजी मन्दिर, जुगलकिशोरजी मन्दिर इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।
उत्तरप्रदेशराज्यम् | ||||
छतरपुरमण्डलम् | सतनामण्डलम् | |||
पन्नामण्डलम् | ||||
कटनीमण्डलम् |
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये पन्नामण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://www.panna.nic.in/ Archived २०१०-०८-२० at the Wayback Machine
http://www.census2011.co.in/census/district/293-panna.html