होमियोपति
आर्णिका | |
प्रतिपादनम् | Proponents claim that illnesses can be treated with specially prepared extreme dilutions of a substance that produces symptoms similar to the illness. Homeopathic remedies rarely contain any atom or molecule of the substance in the remedy. |
---|---|
वैज्ञानिकसम्पर्कः | रसायनविज्ञानम्, औषधविज्ञानम् |
प्रतिज्ञातवर्षम् | १८०७ |
मुख्यप्रवर्तकाः | साम्युयेल् हानिमन् |
गौणप्रवक्तारः |
संस्थाः- बैरन्, हील्, मिरलास् हेल्थकेयर्, नेल्सन्, जीक्यम् व्यैक्तिक - दीपक चोपरा, पल् हर्स्कु, रोबिन् मर्फी, रञ्जन् शङ्करण्, लुक् डि शेफार्, जन् स्कोल्टेन्, जेरेमी शेर्, दना उल्मान्, जर्ज् विथोलुकास् |
होमियोपति (Homeopathy) एका चिकित्सा पद्धतिः अस्ति । अस्याः चिकित्सायाः जन्मदाता साम्युयेल् हानिमन् वर्यः । एषा पद्धतिः ’समरूपतासिद्धान्ताधारिता’ । वैद्याः उक्तसिद्धान्तस्य अनुसारेण रोगपरीक्षणानन्तरम् औषधानां निर्देशं कुर्वन्ति । किन्तु रोगलक्षणानाम् अपेक्षया औषधानि प्रबालानि भवेयुः । अस्यां चिकित्सायाम् अस्वस्थं मनश्यं विचार्य लक्षणानि च ज्ञात्वा उपयुक्तानि औषधानि देयानि भवन्ति । रोगस्य औषधस्य च लक्षणानि समानानि भववेयुः । तेन अस्वस्थः अल्पे समये स्वस्थः भवविष्यति । चिकित्सकः पटुः भवेत् । तदैव तेन रोगलक्षणानि ज्ञातुं शक्यानि भवन्ति । गभीररोगाणां चिकित्सायै चिकित्सकस्य अस्वस्थस्य च धैर्यम् अपेक्षते । शोराविषस्य वृद्धिः शरीरे भवति चेत् रोगाः उत्पद्यन्ते इति केचन होमियोपथि चिकिस्तकानां अभिप्रायो अस्ति । चिकित्साकानां मेधाविनाम् अयमभिप्रायः जन्तूनां इन्द्रियेषु आदर्शक्रियाशीलता (Êfunctional norm) विकृता यदा भवति तदा जन्तुषु पूर्वादर्शक्रियाशीलतायाः निमित्तं नैके प्रतिक्रियाः भवन्ति । प्रतिक्रियासाफल्यार्थं औषधानाम् अपेक्षा अस्ति इति । रोगग्रस्थाः अशक्ताः भवन्तीत्यतः तेभ्यः अल्पप्रमाणेनैव औषधं देयम् इति । अल्पप्रमाणेन दानेन दुष्परिणामानि न भवन्ति । सर्वविधेभ्य: अपि रोगेभ्य: शर्करागुलिका: दीयन्ते । ता: मधुरा: एव । अत: औषधस्य तिक्तकट्वादय: रुचय: न भवन्ति तत्र ।
सिद्धान्ताः
[सम्पादयतु]सादृश्यनियमः ( Law of Similar )
[सम्पादयतु]डा साम्युयेल् हानिमन् वर्येण प्रवर्तितहोमियोपतिचिकित्सायां “सादृश्यनियमः” इति सिद्धान्तः अन्यतमः । “सिमिलिया सिमिविबस् क्यूरेण्टर् “ (Similia Similibus Curanter) “समः समम् शमयति “ इति । रोगः यावान् प्रमाणेन भवति तावत् प्रमाणस्य औषधसेवनेन रोगः निर्रोगः भविष्यति । द्वितीयः अर्थः येन अधिकप्रमाणस्य औषधेन स्वस्थ शरीरे विकारोत्पत्तिः भविष्यति । लघुप्रमाणेन चेत् समप्राकृतिकलक्षणानि नष्टानि भवन्ति ।
एकमेव औषधम् (Single Medicine)
[सम्पादयतु]अस्यां होमियोपतिचिकित्सायाम् एकस्मिन् समये एकमेव औषधं देयम् इति निर्देशः अस्ति । किन्तु अद्यत्वे एनं नियमं सर्वे वैद्याः न पालयन्ति । अनुभवानुगुणम् औषधानि दीयन्ते ।
कनिष्टम् औषधप्रमाणम् (The Minimum dose)
[सम्पादयतु]सदृशविज्ञानस्य आधारेण चितस्य रोगस्य औषधस्य प्रमाणं स्वल्पप्रमाणं भवति चेत् औषधस्य दुष्परिणामानि न भवन्ति । औषधम् प्रथमतः शरीरस्य बलं रक्षति अनन्तरं रोगवारणप्रक्रियां करोति । होमियोपति औषधानां निर्माणं विशेषरूपेण कुर्वन्ति । औषधशक्तिकरणस्यैव नाम स्थापयन्ति । घनपदार्थेभ्यः ट्राच्यूरेशन् द्रवपदार्थस्य सक्शन् -प्रणालीद्वारा च औषधानाम् उत्पादनं कुर्वन्ति ।
व्यक्तिगता समग्रा च चिकित्सा
[सम्पादयतु]एषः मूलसिद्धान्तः भवति । अस्यां होमियोपति चिकित्सायां रोगाणां नाम्नां चिकित्सां न कुर्वन्ति । किन्तु , रोगिणां मानसिक, भावनात्मक, शारीरकादि चिकित्साम् आदौ कुर्वन्ति । उदाहरणार्थम्, यदि पञ्च श्वासरोगिभ्यः (अस्थमा) एकमेव औषधं न दास्यन्ति । स्म्पूर्णलक्षणाधारेण रोगिभ्यः औषधं यच्छन्ति ।
संजीवकबलम् (Vital Force )
[सम्पादयतु]मनुष्यस्य शरीरे संजीवकबलं ज्ञात्वा प्रतिपादितं यत्, एतत् संजीवकबलं बाह्यरूपेण आक्रम्यमाणैः रोगैः शरीरस्य रक्षणं करोति । अस्वस्थदशायां संजीवकबलं रोगग्रस्थं भवति । सदृशविज्ञानस्य आधारेण चितौषधेन संजीवकबलस्य विकारान् नाशयित्वा शरीरस्य रक्षणं करोति ।
रोगबीजम्
[सम्पादयतु]प्राचीनरोगाणां मूलकारणानि सोरा (Psora), सायिकोसिस् () सिफिलिस् च भवन्ति । काराणानां समुदायस्य मियाज्म् इति नाम । मियाज्म् इत्यस्य प्रदूषणम् अर्थः ।
औषधसमर्थनम्(Drug Proving)
[सम्पादयतु](औषधचिकित्सा) औषधदानसमये अस्वस्थस्य थेरापुयिटक क्षमता ज्ञातव्या । स्वस्थाय मनुष्याय उषधं दत्त्वा औषधस्य लक्षणानि ज्ञातव्यानि भवन्ति । ईदृशस्य प्रयोगानन्तरं सदृशविज्ञानस्य अनुसारेण वैद्याः रोगं ज्ञातुं शक्ताः भवन्ति
वैज्ञानिकता
[सम्पादयतु]वैद्ये रोगिण: य: विश्वास: भवति तम् अवलम्ब्य एव रोग: अपगच्छति, उपशाम्यति वा । अत: होमियोपति-चिकित्सा नाम मानसिकचिकित्साक्रम: कश्चन’’ इति अलोपतिवैद्या: अभिप्रयन्ति । अत: एव कोऽपि वैज्ञानिक: अपि होमियोपतिचिकित्सा-क्रमस्य वैज्ञानिकत्वम् अङ्गीकर्तुं न सिद्ध: । होमियोपतिवैद्यपद्धतौ अवैज्ञानिकबुद्धि: तेषाम् एतावती अस्ति यत् केभ्यश्चित् वर्षेभ्य: पूर्वं ते तां पद्धतिं महता उत्साहेन प्रतिपादयते कस्मैचित् वैद्याय कुप्रतिष्ठाद्योतिकाम् ‘इग्नोबेल् प्रशस्तिम्’ अपि प्रदत्तवन्त: !!
किन्तु एषु दिनेषु तादृशानां मतिं परिष्कर्तुम् इव किञ्चन संशोधनम् आकस्मिकतया जातम् अस्ति । दक्षिणकोरियादेशस्य वैज्ञानिका: कस्मिंश्चित् शोधकार्ये निरता: आसन् । तदवसरे आकस्मिकतया रसायनविज्ञानसम्बन्धी कश्चन चमत्कार: तै: ज्ञात: । स च रासायनिक-प्रक्रियाया: मूलसिद्धान्तान् एव निराधारी-करोति । तेनैव सह होमियोपतिसिद्धान्तस्य वैज्ञानिकतां प्रतिपादयति च । चमसमितं लवणं जले मिश्रीकरणात् लवणद्रव: प्राप्यते ।
तत्र जलयोजनं यथा यथा वर्धयाम तथा तथा तस्मिन् द्रवे स्थितानां सोडियं क्लोरैड्-अणूनां मध्ये अन्तरं वर्धते । एतत् तु सर्वै: ज्ञात: विषय: । दक्षिणकोरियादेशे कटर् गेक्लर्, शरिधर समाल् च क्वाङ्गुयुविज्ञानतन्त्रज्ञानसंस्थायां वैज्ञानिकौ । कदाचित् तौ सैक्लोडेक्स्ट्रिन्-नामकेन रासायनिकवस्तुना युक्ते पात्रे जलयोजनं वर्धितवन्तौ । ताभ्यां यथा यथा जलं योजितं तथा तथा सैक्लोडेक्स्ट्रिन्-अणव: न दूरं गता:, अपि तु राशिरूपेण स्थिता: । प्रयोगार्थं स्वीकृते सैक्लोडेक्स्ट्रिन्वस्तुनि एव कोऽपि दोष: स्यात् इति चिन्तयन्तौ तौ सोडियं गुवानोसैन् मोनोफास्फेट्नामकं वस्तु स्वीकृत्य पूर्वतनं कृत्यम् एव पुन: कृतवन्तौ । अत्रापि पूर्वोक्त: एव परिणाम: । तत: तौ लवणं स्वीकृत्य प्रयोगस्य आवर्तनं कृतवन्तौ । आश्चर्यं नाम लवणाणव: दूरं न गता:, प्रत्युत राशीभूय स्थिता: । आत्मना प्राप्ते फलितांशे विश्वासम् अकुर्वन्तौ तौ लेसर्परीक्षा, स्क्यानिङ्ग्, इलेक्ट्रन् मैक्रास्कोपि इत्यादिभि: अत्याधुनिकतन्त्रै: राशीभूतानाम् अणूनां परीक्षणं कृतवन्त: । यथा यथा द्रव: दुर्बल: भवति तथा तथा अणूनाम् आकार: पञ्चगुणिततया दशगुणिततया वा प्रवृद्ध: दृष्ट: ताभ्याम् । एतदवसरे ताभ्याम् अन्योऽपि अंश: लक्षित: । द्रवस्य अतिदुर्बलताकाले एव अणुराशे: सामर्थ्यं वर्धनं दृश्यते स्म । द्रव: यदा अल्पजलांशयुक्त: तन्नाम द्रवे यदा अणूनां बाहुल्यं भवति तदा एष: परिणाम: न दृश्यते स्म प्राधान्येन । जलादय: द्रवा: ध्रुवद्रवा: इति उच्यन्ते विज्ञानशास्त्रे । एतेषाम् अणूनाम् एकस्यां कोटौ ऋणध्रुव:, अपरस्यां धनध्रव: च भवति । एतादृशेषु ध्रुवद्रवेषु एव पूर्वोक्त: विपरिणाम: जायते, न तु अन्यद्रवेषु । होमियोपत्यौषध-निर्माणावसरे ध्रुवद्रवाणाम् एव उपयोग: क्रियते ।
कोरियन्वैज्ञानिकौ स्वस्य अनुभवं निरूप्य अन्यान् अपि उक्तवन्त: - ‘भवन्त: अपि एतस्य परीक्षणं कुर्वन्तु’ इति । नेदर्ल्याण्डीये ग्रोनिङ्गेन्-विश्वविद्यालये अपि परीक्षणं प्रवृत्तम् । तत: तत्रत्य: वैज्ञानिक: रसशास्त्रतज्ञ: जान् एन्बटर्स् अवदत् - ‘आश्चर्यकरम् एतत्, अस्माकम् आघातकरं चापि’ इति ।
‘जलाणूनां स्मरणशक्ति: अपि अस्ति’ इति इत्येतत् तत्त्वं पतिपाद्य वैज्ञानिकानाम् उपहास-पात्रीभूत:। फे्रञ्च् प्रतिरक्षावैज्ञानिक: (इम्यूनालजिस्ट्) जाक्स् बेन्वेनिस्त् वदति ‘द्रवीभूतौषधयुक्ते जले आधिक्येन जलं योज्यते चेदपि औषधस्य स्मरण-मुद्रा तु अक्षततया तिष्ठति एव’ इति । एतेन प्रयोगेण होमियोपतिचिकित्साक्रमस्य वैज्ञानिकाधार: कल्पित: अस्ति यत् तत् तु महते सन्तोषाय ।
औषधप्रमाणम्
[सम्पादयतु]अस्यां चिकित्सायां महत्त्वम् औषधस्यैव । अस्याः चिकित्सायाः आरम्भे २००,१००० सामर्थ्ययुक्तानि औषधानि हानेमन् उपयुज्यते स्म । स्वानुभवेन कालन्तरे स्वल्पप्रमाणस्य १x, ३x, ६x, १२x, उत ६, १२, ३० औषधानि उपयुज्यते स्म । नैकेषु अनुभवेषु हानेमेन् ज्ञातवान् यत् शरीरे रोगः यदा भवति तस्मिन् समये स्वल्पप्रमाणस्य औषधदानेन रोगमुक्तं भवति ।
- होम्योपति औषधेषु ३ प्रकारकाः प्रमाणप्रयोगाः भवन्ति ।
- डेसीमल्-प्रमाणम्(Decimal Scale)
- सेण्टीसमल्-प्रमाणम् ( Centesimal Scale )
- ५० मिलीसीमल्-प्रमाणम्(50 Millesimial scale)१
१.डेसीमल्-प्रमाणपद्धतौ एकभागात्मकम् औषधम्, नवभागयुते क्षीरे उत सुरायां सम्मिश्रणं करणीयम् । अनेन प्रमाणेन निर्मितस्य औषधस्य ‘X’ इति संभोधयन्ति । कालीफास् ६X, एकोनायिट् ३X, इत्यादीनि भवन्ति । १x, घनौषधकरणे एकभागात्मकम् औषधम्, नवभागयुते क्षीरे उत सुरायां सम्मिश्रणं करणीयम् भवति । १x, द्रवौषधकरणे एकभागात्मकं मूलार्कं, नवभागयुते क्षीरे उत सुरायां सम्मिश्रणं करणीयम् भवति । २X निर्माणे १x स्य एकं भागम्, नवभागयुते क्षीरे उत सुरायां सम्मिश्रणं करणीयम् भवति । अग्रिमस्थरस्य औषधस्य निर्माणाय पूर्वतनभागस्य एकं भागम्, नवभागयुते क्षीरे उत सुरायां सम्मिश्रणं करणीयम् भवति ।
२.सेन्टीसमल्-प्रमाणपद्धतौ एकभागात्मकम् औषधम्, नवनवतिभागयुते क्षीरे उत सुरायां सम्मिश्रणं करणीयम् भवति । अनेन प्रमाणेन कृताय औषधाय ‘c’ इति नाम । ३०c, २००c, १०००c, इत्यादीनि औषधानि सन्ति। अग्रिमस्थरस्य औषधस्य निर्माणाय पूर्वतनभागस्य एकं भागम्, नवभागयुते क्षीरे उत सुरायां सम्मिश्रणं करणीयम् भवति ।
औषधानि
[सम्पादयतु]विषवस्तु अत्यल्पप्रमाणेन औषधगुलिकासु भवति । तस्य सेवनात् रोगनिरोधकशक्ति: रोगिणि भवति इति तु होमियोपतिसिद्धान्त: । तदेव विषवस्तु द्रवमिश्रणात् द्रवरूपतां यदा प्राप्नोति तत् प्रतिविषायते । यथा यथा द्रवं दुर्बलतां याति तथा तथा औषधस्य सामर्थ्यं वर्धते’ इति प्रतिपादयन्ति होमियोपतिवैद्या: । होमियोपति औषधानि अर्कः(Tincture), संपेषणम्(Trituration), तनूकरणम्(Dilutions) इति त्रिषु रूपेषु भवन्ति । गन्धक, पारा, सुवर्णम्, रजतम्, चूर्णम्, लोहादिभिः औषधानां निर्माणं भवति । होमियोपति औषधविवरणे ग्रन्थे २६० तः २७० औषधानि निरूपितानि ।
बाह्यानुबन्धः
[सम्पादयतु]- होम्योपैथी - नई सोच, नई दिशाएं (डॉ प्रभात टण्डन का हिन्दी चिट्ठा)
- होम्योपैथी - कुमार मुकुल का हिन्दी ब्लॉग
- Homeopathy Heals.. (हिन्दी ब्लॉग)
- The American Institute of Homeopathy Handbook for Parents Archived २०१५-०६-२७ at the Wayback Machine
- होमियो बायो लक्षण एवं चिकित्सा सूत्र (गूगल पुस्तक ; लेखक - भीम कुमार झा)
- होम्यो कृषि पद्धति Archived २०१२-११-३० at the Wayback Machine