सामग्री पर जाएँ

निर्णय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णयः, पुं, (निर्णयनमिति । निर् + नी + “एरच् ।” ३ । ३ । ५६ । इति भावे अच् ।) अवधार- णम् । तत्पर्य्यायः । निश्चयः २ । इत्यमरः । १ । ५ । ३ ॥ निर्णयनम् ३ निचयः ४ । इति शब्दरत्नावली ॥ (यथा, मनुः । १२ । २ । “स तानुवाच धर्म्मात्मा महर्षीन् मानवो भृगुः । अस्य सर्व्वस्य शृणुत कर्म्मयोगस्य निर्णयम् ॥”) विचारः । तत्पर्य्यायः । तर्कः २ गुञ्जा ३ चर्च्चा ४ । इति यिकाण्डशेषः ॥ विरोधपरिहारः । इति मिताक्षरा ॥ चतुष्पादव्यवहारान्तर्गतशेषपादः । फय्सला इति आरवीयभाषा ॥ डिक्री इति इङ्गरेजीयभाषा ॥ तद्बिवरणं यथा । “अथ निर्णयः । तत्र नारदः । यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । अन्धथावादिनो यस्य ध्रुवस्तस्य पराजयः ॥ स्वयमभ्युपपन्नोऽपि स्वचर्य्यावसितोऽपि सन् । क्रियावसन्नोऽप्यर्हेत परं सभ्यावधारणम् ॥ सभ्यैरवधृतः पश्चात् राज्ञा शास्यः स शास्त्रतः ॥’ यस्य वादिनः प्रतिवादिनो वा साक्षिण इत्युप- लक्षणम् । साक्षिलिखितभुक्तिशपथानां मध्ये- ऽन्यतमप्रमाणं यस्य प्रतिज्ञायाः सत्यत्वप्रति- पादकं स एव जयी अन्यथा पराजित इति प्रत्येतव्यम् । स्वयमभ्युपपन्नः आत्मनैवाङ्गीकृत- स्वपराजयः । स्वचर्य्यावसितः कम्पस्वेदवैवर्ण्या- दिना पराजितत्वेनावधृतः । क्रियावसन्नः साक्षादिना प्राप्तपराजयः । परमनन्तरम् । सभ्यावधारणं सभासदां मिलितानामयं परा- जितः इति निर्णयं अर्हेत । स शास्त्रविधिना शास्यः ॥ * ॥ निर्णयस्य फलमाह बृहस्पतिः । ‘प्रतिज्ञाभावनाद्वादी प्राड्विवाकादिपूजनात् । जयपत्रस्य चादानात् जयी लोके निगद्यते ॥’ जयपत्रस्य लेखनप्रकारमाह स एव । ‘यद्वृत्तं व्यवहारेषु पूर्ब्बपक्षोत्तरादिकम् । क्रियावधारणोपेतं जयपत्रेऽखिलं लिखेत् ॥ पूर्ब्बोत्तरक्रियायुक्तं निर्णयान्तं यदा नृपः । प्रदद्याज्जयिने पत्रं जयप्रत्रं तदुप्यते ॥’ कात्यायनः । ‘अर्थिप्रत्यर्थिवाक्यानि प्रतिसाक्षिवचस्तथा । निर्णयश्च तथा तस्य यथा चावधृतं स्वयम् ॥ एतद्यथाक्षरं लेख्यं यथापूर्ब्बं निवेशयेत् । सभासदश्च ये तत्र घर्म्मशास्त्रविदस्तथा ॥’ तवश्च भारोत्तरे क्रिया च पत्रसाक्षादिकं निर्णयो जयपराजयावधारणं निर्णयकालाव- स्थितमध्यस्थाश्च इत्यादिकं सर्व्वं लेखनीयं निरू- पणस्य सन्यक्त्वप्रदर्शनार्थम् । तथाहि भाषो- त्रलेस्वनं हेत्वन्तरेण पुनर्न्यायप्रत्यवस्थान- निषेधार्थम् । बहि न गृहीतमिति मिथ्योत्तरेण पराजितस्य पुनः परिशोधितं मयेति प्रत्यव- स्थानं सम्भवति । प्रमाणलेखनन्तु पुनः प्रमाणा- ज्ञानम् । यथा । वह्निमान् पर्व्वत इत्यादि- बोधः । इति भाषापरिच्छेदः ॥ तद्धर्म्मावच्छिन्न- प्रकारत्वान्यप्रकारत्वानिरूपितपक्षतावच्छेदका- वच्छिन्नविशेष्यताशालिज्ञानम् । इति जग- दीशः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णय पुं।

निश्चयः

समानार्थक:निर्णय,निश्चय,सर्ग,निर्

1।5।3।2।3

अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः। सन्देहद्वापरौ चाथ समौ निर्णयनिश्चयौ॥

वैशिष्ट्य : बुद्धिः

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णय¦ पु॰ निर् + नी--भावे अच्।

१ निश्चये तदमावाग्राहिणितद्ग्राहि{??} ज्ञाने। सन्देहे यथा भावाभावौ[Page4093-b+ 38] द्वावेव विषयतया भासेते नैवं निश्चये किन्तु तत्र एकविधएवावभासते। निश्चयत्वं च न जातिः प्रत्यक्षत्वादिनालाङ्कुर्व्यात् किन्तु विषरिताविशेष इत्याकरे स्थितम्।

२ विरोधप रहारे मीमांसोक्ते पञ्चावयवन्यायमध्ये

३ च-रमावयवे न्यायोक्ते सन्दिह्य पक्षप्रतिपक्षयोः

४ सा-धनबाधनाभ्यामर्थावधारणे स च गौतमोक्तेषु षोडशसुपदार्थेषु पदार्थभेदः तल्ल{??}णादिकं गौ॰ सू॰ मा॰ उक्तं यथा
“विमृश्य पक्षप्रतिपक्षाभ्याषर्थावधारणं निर्णयः” सू॰
“स्थापना साधनं, प्रतिषेध उपालम्भः, तौ साधनोपा-लम्भौ पक्षपतिपक्षाश्रितौ व्यतिषक्तावनुबन्धेन प्रवर्त्तमानौषक्षपतिपक्षावित्युच्यते, तयोरन्थतरस्य निवृत्तिरेकतर-स्यावस्थानम् अवश्यम्भावि, यस्यावस्थानं तस्यावधारणंनिर्णयः। नेदं पक्षप्रतिपक्षाभ्यामर्थावधारणं सम्भवतीतिएको हि प्रतिज्ञातमर्थं हेतुतः स्थापयति प्रतिषिद्धंचोद्धरतीति द्वितीयेन स्थापनाहेतुः प्रतिषिध्यतेतस्यैव प्रतिषेघहेतुवोद्ध्रियते स निवर्त्तते तस्य नि-वृत्तौ योऽवतिष्ठते तेनार्थवधारणं निर्णय इति उभा-भ्यामेवार्थावधारणनित्याह। यथा युक्त्या एकस्य सम्भ-वो द्वितीयस्वासम्भवः तावेतौ सम्भवासम्भवौ विमर्शं सहनिवर्त्तयतः, उभयसम्भवे उभयासम्भवे त्वनिवृत्तो विमर्शइति। विमृश्येति विमर्शं कृत्वा, सोऽयं विमर्शः पक्ष-प्रतिपक्षाभावद्योत्यं न्थायं प्रवर्त्तयतीत्युपादीयते इति। एतच्च विरुद्धयोरेकधर्मिस्थयोर्नोदव्यं यत्र तु धर्मिसामान्य-मतौ विरुद्धौ धर्मौ हेतुतः सम्भवतः तत्र समुच्चयहेतुतो-ऽर्थस्य तत्त्वामावोपपत्तेः, यथा क्रियावद्द्रव्यमिति सक्ष-णवचने यस्य द्रव्यस्य क्रियायोगो हेतुतः सम्भवति तत्क्रियावत् यस्य न सपावति तदतियमिति, एकधर्मिस्थ-योश्च विरुद्धयोर्युगपङ्गाविनोः कालविकल्पः यथा तदेवद्रव्यं क्रियायुक्तं क्रियावत् अनुत्पन्नोपरतक्रियं पुनरक्रि-यमिति। न चायं निर्णये नियमो विमृश्यैव पक्षप्रति-पक्षाभ्यामर्थावधराणं निर्णय इति किन्त्विन्द्रयार्थसन्नि-कर्षोत्पन्नप्रत्यक्षेऽर्थावधारणं निर्णय इति। परीक्षाविषयेतु विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः शास्त्रेवादे च विमर्शवर्जम्”। मीमांसकोक्तस्याधिकरणस्यावय-वाश्च
“विषयोऽविषयश्चैव पूर्वपक्षस्तथोत्तरम्। निर्णयश्चेति सिद्धान्तः शास्त्रेऽधिकरखणं स्मृतम्” इत्युक्ताः।
“तत्र निर्णयः सिद्धान्तसिद्धविचार्य्यवाक्यतात्पर्य्यावधार-णम्” तत्त्वकौ॰। [Page4094-a+ 38]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णय¦ m. (-यः)
1. Certainty, positive conclusion.
2. Doubt, discussion, investigation.
3. (In Law,) Sentence, decision.
4. (In the Mi- ma4nsa.) The application of a conclusive argument.
5. (In Logic,) Complete ascertainment. E. निर् affirmative prefix, णी to guide, affix, भावे अच्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णयः [nirṇayḥ] निर्णीत [nirṇīta] निर्णेतृ [nirṇētṛ], निर्णीत निर्णेतृ &e. See under निर्णी.

निर्णयः [nirṇayḥ], 1 Removing, removal.

Complete ascertainment, decision, affirmation, determination, settlement; संदेहनिर्णयो जातः Ś.1.27; Ms.8.31,49;9.25; Y.2.1; हृदयं निर्णयमेव धावति Ki.2.29.

Deduction, inference, conclusion, demonstration (in logic).

Discussion, investigation, consideration

Sentence, verdict, judgment; बाहुवीर्याश्रिते मार्गे वर्तसे दीप्तनिर्णये Mb. 3.292.2; सर्वज्ञस्याप्येकाकिनो निर्णयाभ्युपगमो दोषाय M.1.

Application of a conclusive argument.

(In Rhet.) Narration of events. -Comp. -उपमा a. comparison based upon an inference; Kāv.2.27. -पादः a sentence, decree, verdict (in law).

निर्णयम् [nirṇayam], 1 Ascertainment, determination.

Positive conclusion, settlement.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णय etc. See. निर्-णी.

निर्णय/ निर्- m. taking off , removing Mn. MBh. Ka1v. etc.

निर्णय/ निर्- m. complete ascertainment , decision , determination , settlement ib.

निर्णय/ निर्- m. (in logic) deduction , inference , conclusion , demonstration

निर्णय/ निर्- m. application of a conclusive argument

निर्णय/ निर्- m. (in law) sentence , verdict(See. -पादbelow)

निर्णय/ निर्- m. (in rhet. )narration of events Sa1h.

निर्णय/ निर्- m. discussion , consideration(= विचार) L.

"https://sa.wiktionary.org/w/index.php?title=निर्णय&oldid=500673" इत्यस्माद् प्रतिप्राप्तम्