ऋग्वेदः सूक्तं ६.७१
← सूक्तं ६.७० | ऋग्वेदः - मण्डल ६ सूक्तं ६.७१ बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.७२ → |
दे. सविता। जगती, ४-६ त्रिष्टुप् । |
उदु ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय सुक्रतुः ।
घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि ॥१॥
देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश्च दावने ।
यो विश्वस्य द्विपदो यश्चतुष्पदो निवेशने प्रसवे चासि भूमनः ॥२॥
अदब्धेभिः सवितः पायुभिष्ट्वं शिवेभिरद्य परि पाहि नो गयम् ।
हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नो अघशंस ईशत ॥३॥
उदु ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषमस्थात् ।
अयोहनुर्यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम् ॥४॥
उदू अयाँ उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका ।
दिवो रोहांस्यरुहत्पृथिव्या अरीरमत्पतयत्कच्चिदभ्वम् ॥५॥
वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः ।
वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम ॥६॥
सायणभाष्यम्
' उदु ष्य देवः' इति षड़ृचं दशमं सूक्तं भरद्वाजस्यार्षं सवितृदेवताकम् । अद्यास्तिस्रो जगत्यश्चतुर्थ्याद्यास्तिस्रस्त्रिष्टुभः । तथा चानुक्रान्तम् - उदु ष्य सावित्रं त्रित्रिष्टुबन्तम् ' इति । सूक्तविनियोगो लैङ्गिकः । चातुर्विंशिकेऽहनि वैश्वदेवशस्त्रे आद्यस्तृचः सावित्रसूक्तस्थान आवपनीयः । सूत्रितं च – ‘उदु ष्य देवः सविता हिरण्ययेति तिस्रस्ते हि द्यावापृथिवी ' ( आश्व. श्रौ. ७ . ४ ) इति । बृहस्पतिसवेऽपि वैश्वदेवशस्त्रे सावित्रसूक्तस्थान एष तृचः । सूत्रितं च - उदु ष्य देवः सविता हिरण्ययेत्यनूत्तिष्ठेत् ' (आश्व. श्रौ. ९ . ५) इति । व्यूळ्हे पञ्चमेऽहनि वैश्वदेवशस्रेष् ‘उदु ष्य देवः सविता दमूनाः ' इति तृचः सावित्रनिविद्धानार्थः । सूत्रितं च - ‘उदु ष्य देवः सविता दमूना इति तिस्रः ' ( आश्व. श्रौ. ८ . ८ ) इति । वैश्वदेवपर्वणि सावित्रद्वादशकपालस्य ' वाममद्य ' इति याज्या । सूत्रितं च – वाममद्य सवितर्वाममु श्वः पूषन्तव व्रते वयम् ' ( आश्व. श्रौ. २. १६ ) इति ॥
उदु॒ ष्य दे॒वः स॑वि॒ता हि॑र॒ण्यया॑ बा॒हू अ॑यंस्त॒ सव॑नाय सु॒क्रतु॑ः ।
घृ॒तेन॑ पा॒णी अ॒भि प्रु॑ष्णुते म॒खो युवा॑ सु॒दक्षो॒ रज॑सो॒ विध॑र्मणि ॥१
उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । हि॒र॒ण्यया॑ । बा॒हू इति॑ । अ॒यं॒स्त॒ । सव॑नाय । सु॒ऽक्रतुः॑ ।
घृ॒तेन॑ । पा॒णी इति॑ । अ॒भि । प्रु॒ष्णु॒ते॒ । म॒खः । युवा॑ । सु॒ऽदक्षः॑ । रज॑सः । विऽध॑र्मणि ॥१
उत् । ऊं इति । स्यः । देवः । सविता । हिरण्यया । बाहू इति । अयंस्त । सवनाय । सुऽक्रतुः ।
घृतेन । पाणी इति । अभि । प्रुष्णुते । मखः । युवा । सुऽदक्षः । रजसः । विऽधर्मणि ॥१
“देवः द्योतमान: "सुक्रतुः सुकर्मा “स्यः स प्रसिद्धः "सविता “हिरण्यया हिरण्मयौ आत्मीयौ “बाहू "सवनाय सुवनाय दानाय वा “उत् "अयंस्त उद्यच्छति । किंच “मखः मंहनीयः "युवा नित्यतरुणः "सुदक्षः सुप्रज्ञः "रजसः लोकस्योदकस्य वा "विधर्मणि विधारणे स्थितः “घृतेन उदकेन पूर्णौ स्वौ "पाणी "अभि “प्रुष्णुते अभिप्रेरयति ॥
दे॒वस्य॑ व॒यं स॑वि॒तुः सवी॑मनि॒ श्रेष्ठे॑ स्याम॒ वसु॑नश्च दा॒वने॑ ।
यो विश्व॑स्य द्वि॒पदो॒ यश्चतु॑ष्पदो नि॒वेश॑ने प्रस॒वे चासि॒ भूम॑नः ॥२
दे॒वस्य॑ । व॒यम् । स॒वि॒तुः । सवी॑मनि । श्रेष्ठे॑ । स्या॒म॒ । वसु॑नः । च॒ । दा॒वने॑ ।
यः । विश्व॑स्य । द्वि॒ऽपदः॑ । यः । चतुः॑ऽपदः । नि॒ऽवेश॑ने । प्र॒ऽस॒वे । च॒ । असि॑ । भूम॑नः ॥२
देवस्य । वयम् । सवितुः । सवीमनि । श्रेष्ठे । स्याम । वसुनः । च । दावने ।
यः । विश्वस्य । द्विऽपदः । यः । चतुःऽपदः । निऽवेशने । प्रऽसवे । च । असि । भूमनः ॥२
तस्य "देवस्य "सवितुः प्रेरकस्य "सवीमनि प्रसवेऽनुज्ञाने। तथा च यास्कः - सवीमनि प्रसवे ' ( निरु. ६ . ७ ) इति । "श्रेष्ठे अतिशयेन प्रशस्ते “वसुनः धनस्य “दावने दाने “च “स्याम समर्था भूयास्म । "यः त्वं "विश्वस्य सर्वस्य “द्विपदः “निवेशने स्थितौ "प्रसवे "च स्वतन्त्रः “असि । "यः त्वं “भूमनः भूरेः "चतुष्पदः निवेशने प्रसवे च स्वतन्त्रोऽसि ॥
अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वं शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् ।
हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥३
अद॑ब्धेभिः । स॒वि॒त॒रिति॑ । पा॒युऽभिः॑ । त्वम् । शि॒वेभिः॑ । अ॒द्य । परि॑ । पा॒हि॒ । नः॒ । गय॑म् ।
हिर॑ण्यऽजिह्वः । सु॒वि॒ताय॑ । नव्य॑से । रक्ष॑ । माकिः॑ । नः॒ । अ॒घऽशं॑सः । ई॒श॒त॒ ॥३
अदब्धेभिः । सवितरिति । पायुऽभिः । त्वम् । शिवेभिः । अद्य । परि । पाहि । नः । गयम् ।
हिरण्यऽजिह्वः । सुविताय । नव्यसे । रक्ष । माकिः । नः । अघऽशंसः । ईशत ॥३
हे "सवितः "अदब्धेभिः अहिंसितैः "पायुभिः तेजोभिः रक्षणसाधनैर्वा “शिवेभिः सुखकरैः "नः अस्माकं "गयं गृहं धनं वा । ‘ गयः कृदरः' इति गृहनामसु ' मीळ्हं गयः' इति धननामसु पाठात् । "अद्य “परि "पाहि रक्ष। "हिरण्यजिह्वः हितरमणीयवाक् "त्वम् । तथा च यास्कः - ‘ हिरण्यं कस्मात् ' इत्युपक्रम्य ' हितरमणं भवतीति वा ' ( निरु. २ : १० ) इति । “सुविताय सुखाय "नव्यसे नवतराय भव । "रक्ष अम्मान् पालय च । 'नः अस्माकम् "अघशंसः अनर्थमाशंसमानः शत्रुः “माकिः "ईशत मेशत ॥
उदु॒ ष्य दे॒वः स॑वि॒ता दमू॑ना॒ हिर॑ण्यपाणिः प्रतिदो॒षम॑स्थात् ।
अयो॑हनुर्यज॒तो म॒न्द्रजि॑ह्व॒ आ दा॒शुषे॑ सुवति॒ भूरि॑ वा॒मम् ॥४
उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । दमू॑नाः । हिर॑ण्यऽपाणिः । प्र॒ति॒ऽदो॒षम् । अ॒स्था॒त् ।
अयः॑ऽहनुः । य॒ज॒तः । म॒न्द्रऽजि॑ह्वः । आ । दा॒शुषे॑ । सु॒व॒ति॒ । भूरि॑ । वा॒मम् ॥४
उत् । ऊं इति । स्यः । देवः । सविता । दमूनाः । हिरण्यऽपाणिः । प्रतिऽदोषम् । अस्थात् ।
अयःऽहनुः । यजतः । मन्द्रऽजिह्वः । आ । दाशुषे । सुवति । भूरि । वामम् ॥४
“देवः द्योतमानः "दमूना: दममनाः दानमना वा । तथा च यास्कः - ‘ दमूना दममना वा दानमना वा दान्तमना वा ' ( निरु. ४. ४ ) इति । "हिरण्यपाणिः हिरण्मयपाणिः “अयोहनुः हिरण्मयहनुः । ‘ रुक्मम् अयः' इति हिरण्यनामसु पाठात् । "यजतः यष्टव्यः "मन्द्रजिह्वः मोदमानवाक् "स्यः सः "सविता "प्रतिदोषं प्रतिरात्रं रात्रेः अवसानेऽवसाने "उत् "अस्थात् उत्तिष्ठतु । यः "दाशुषे यजमानाय मह्यं "भूरि प्रभूतं “वामं वननीयं संभजनीयमन्नम् । वामं वननीयम् ' ( निरु. ६ : ३१ ) इति यास्कः । “आ "सुवति प्रेरयति ॥
उदू॑ अयाँ उपव॒क्तेव॑ बा॒हू हि॑र॒ण्यया॑ सवि॒ता सु॒प्रती॑का ।
दि॒वो रोहां॑स्यरुहत्पृथि॒व्या अरी॑रमत्प॒तय॒त्कच्चि॒दभ्व॑म् ॥५
उत् । ऊं॒ इति॑ । अ॒या॒न् । उ॒प॒व॒क्ताऽइ॑व । बा॒हू इति॑ । हि॒र॒ण्यया॑ । स॒वि॒ता । सु॒ऽप्रती॑का ।
दि॒वः । रोहां॑सि । अ॒रु॒ह॒त् । पृ॒थि॒व्याः । अरी॑रमत् । प॒तय॑त् । कत् । चि॒त् । अभ्व॑म् ॥५
उत् । ऊं इति । अयान् । उपवक्ताऽइव । बाहू इति । हिरण्यया । सविता । सुऽप्रतीका ।
दिवः । रोहांसि । अरुहत् । पृथिव्याः । अरीरमत् । पतयत् । कत् । चित् । अभ्वम् ॥५
“सविता “उपवक्तेव अस्माकमधिवक्तेव "हिरण्यया हिरण्मयौ "सुप्रतीका शोभनावयवौ “बाहू “उत् "अयान् उद्यच्छतु । योऽयं "पृथिव्याः पृथिवीपर्यन्तात् “दिवः अन्तरिक्षस्य "रोहांसि उच्छ्रितप्रदेशान् "अरुहत् रोहति । “पतयत् गच्छत् "कच्चित् यत्किंचित् “अभ्वं महत् सर्वं वस्तुजातं तिरोहितम् "अरीरमत् रमयति च ॥
वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यं॑ सावीः ।
वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाज॑ः स्याम ॥६
वा॒मम् । अ॒द्य । स॒वि॒तः॒ । वा॒मम् । ऊं॒ इति॑ । श्वः । दि॒वेऽदि॑वे । वा॒मम् । अ॒स्मभ्य॑म् । सा॒वीः॒ ।
वा॒मस्य॑ । हि । क्षय॑स्य । दे॒व॒ । भूरेः॑ । अ॒या । धि॒या । वा॒म॒ऽभाजः॑ । स्या॒म॒ ॥६
वामम् । अद्य । सवितः । वामम् । ऊं इति । श्वः । दिवेऽदिवे । वामम् । अस्मभ्यम् । सावीः ।
वामस्य । हि । क्षयस्य । देव । भूरेः । अया । धिया । वामऽभाजः । स्याम ॥६
हे “सवितः “अस्मभ्यं “वामं धनम् “अद्य “सावीः सुव । “श्वः च "वामं धनं प्रसुव । किं बहूक्त्या। "दिवेदिवे प्रतिदिनं “वामं धनं प्रसुव । हे “देव "हि यस्मात् “क्षयस्य निवासभूतस्य “भूरेः प्रभूतस्य “वामस्य दातासि अतो वयम् “अया अनया “धिया स्तुत्या "वामभाजः धनवन्तः “स्याम भूयास्म ॥ ॥ १५ ॥
मण्डल ६ | ||||
---|---|---|---|---|